मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७६, ऋक् ३

संहिता

तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य ।
यत॒ः परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥

पदपाठः

तानि॑ । इत् । अहा॑नि । ब॒हु॒लानि॑ । आ॒स॒न् । या । प्रा॒चीन॑म् । उत्ऽइ॑ता । सूर्य॑स्य ।
यतः॑ । परि॑ । जा॒रःऽइ॑व । आ॒ऽचर॑न्ती । उषः॑ । द॒दृ॒क्षे । न । पुनः॑ । य॒तीऽइ॑व ॥

सायणभाष्यम्

हे उषः तानीत् तान्येव तव तेजांसि बहुलान्यहानि आसन् उषः प्रकाशयुक्तस्येव कालस्याहःशब्दव्यवहारात् । तानीत्युक्तं कानीत्याह या यानि सूर्यस्य उदिता उदितौ उदये सति प्राचीनं तस्यप्राग्देशं प्रत्युदयन्ति यद्वा सूर्यस्य प्राचीनेदेशे या यान्युदिता उदितानि तानीत्यर्थः हे उषः यतोयैश्च तेजोभिः परिददृक्षे दृश्यसे त्वं जारइव पत्याविव आचरन्तीसमीपे सञ्चरन्ती साध्वी नारीव सञ्चरन्ती त्वं दृश्यसे यथा लोके दुष्टं भ्रमणशीलमपि पतिमत्यज्यैव साध्वी संचरति तद्वत् तमविमुञ्चतीत्वमित्यर्थः । नपुनर्यतीव यती पतिं परित्यज्य इतस्ततः सञ्चरन्तीव्यभिचारिणीव सूर्यमपरित्यजन्ती त्वं पुनरिवेत्ययं वैलक्षण्यद्योतनार्थः एवं यैस्तेजोभिः युक्ता परिदृश्यसे तान्येवाहान्यास- न्निति संबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३