मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७६, ऋक् ६

संहिता

प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ ।
गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ॥

पदपाठः

प्रति॑ । त्वा॒ । स्तोमैः॑ । ई॒ळ॒ते॒ । वसि॑ष्ठाः । उ॒षः॒ऽबुधः॑ । सु॒ऽभ॒गे॒ । तु॒स्तु॒ऽवांसः॑ ।
गवा॑म् । ने॒त्री । वाज॑ऽपत्नी । नः॒ । उ॒च्छ॒ । उषः॑ । सु॒ऽजा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥

सायणभाष्यम्

हे सुभगे देव्युषः त्वा त्वां प्रति उषर्बुधः उषसि बुध्यन्तः तुष्टुवांसः स्तुवन्तोवसिष्ठाः स्तोमैः स्तोत्रैः ईळते स्तुवन्ति गवां नेत्री प्रापयित्री वाजपत्नी अन्नस्य पालयित्री अन्नदात्री त्यर्थः ईदृशी त्वं नोस्मदर्थं उच्छ विभाहि । हेउषः सुजाते सुप्रादुर्भावे प्रथमाइतरदेवेभ्योमुख्य- भूता जरस्व ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३