मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७६, ऋक् ७

संहिता

ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यते॒ वसि॑ष्ठैः ।
दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒षा । ने॒त्री । राध॑सः । सू॒नृता॑नाम् । उ॒षाः । उ॒च्छन्ती॑ । रि॒भ्य॒ते॒ । वसि॑ष्ठैः ।
दी॒र्घ॒ऽश्रुत॑म् । र॒यिम् । अ॒स्मे इति॑ । दधा॑ना । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

एषोषा राधसः स्तोतुः सूनृतानां स्तुतीनां नेत्री सती उच्छन्ती तमोविवासयन्ती वसिष्ठैर्वसिष्ठगोत्रोत्पन्नैः रिभ्यते स्तूयते दीर्घश्रुतं दीर्घे श्रूयमाणं सर्वत्र प्रसिद्धं रयिं धनमस्मे अस्मासु दधाना धारयन्ती शिष्टं गतम् ॥ ७ ॥

उपोरुरुचेइति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् तथाचानुक्रान्तम्-उपोरुरुचेषळिति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३