मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७७, ऋक् १

संहिता

उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वन्ती॑ च॒रायै॑ ।
अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥

पदपाठः

उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ ।
अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥

सायणभाष्यम्

इयमुषाः उपो समीपेएव सूर्यस्य रुरुचे दीप्यते युवतिः यौवनोपेता योषान योषिदिव सा यथा वस्त्राभरणादिना पत्युः समीपे प्रदीप्यते तद्वत् किं कुर्वन्ती विश्वं सर्वं जीवंजीवसंघं चरायै सञ्चाराय प्रसुवन्ती प्रेरयन्ती । किञ्चाग्निः मानुषाणां मनुष्याणामर्थाय समिधे भूत् समिन्धनीयोभवत् । कृत्यार्थेकेन् । समिद्धःसन् तमांस्यन्धकारान् बाधमाना बाधमानं बाधकं ज्योतिस्तेजः सद्यः अकः अकर्षित् अथवा औशसं ज्योतिस्तमांसि बाधमाना बाध्यमानानि अकः अकरोत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४