मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७७, ऋक् ३

संहिता

दे॒वानां॒ चक्षु॑ः सु॒भगा॒ वह॑न्ती श्वे॒तं नय॑न्ती सु॒दृशी॑क॒मश्व॑म् ।
उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥

पदपाठः

दे॒वाना॑म् । चक्षुः॑ । सु॒ऽभगा॑ । वह॑न्ती । श्वे॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अश्व॑म् ।
उ॒षाः । अ॒द॒र्शि॒ । र॒श्मिऽभिः॑ । विऽअ॑क्ता । चि॒त्रऽम॑घा । विश्व॑म् । अनु॑ । प्रऽभू॑ता ॥

सायणभाष्यम्

देवानां चक्षुश्चक्षुःस्थानीयं तेजोवहन्ती धारयन्ती सुभगा शोभनधना सुदृशीकं सुदर्शनं अश्वं सर्वदागन्तारं आदित्यं नयन्ती प्रापयन्ती किं श्वेतं श्वेतवर्णोपेतं सूर्यं प्रकाशयुक्तं कुर्वतीत्यर्थः । कीदृशी उषः रश्मिभिः स्वकीयैर्व्यक्ता अदर्शि दृश्यतेच चित्रामघा चित्रधना विश्वमनु सर्वं जगदनुलक्ष्य प्रभूता प्रवृद्धा प्रवृद्धा सर्वजगद्भ्यवहारायेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४