मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७७, ऋक् ४

संहिता

अन्ति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः ।
या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥

पदपाठः

अन्ति॑ऽवामा । दू॒रे । अ॒मित्र॑म् । उ॒च्छ॒ । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । कृ॒धि॒ । नः॒ ।
य॒वय॑ । द्वेषः॑ । आ । भ॒र॒ । वसू॑नि । चो॒दय॑ । राधः॑ । गृ॒ण॒ते । म॒घो॒नि॒ ॥

सायणभाष्यम्

हे उषः अन्तिवामा अन्ति अस्मदन्तिके वामं वननीयं धनं यस्याः सा अन्तिवामा त्वं अमित्रं अस्मच्छत्रुं दूरे अस्मत्तोविप्रकृष्टदेशे वर्तमानं कृत्वा व्युच्छ विभाहि यथा मित्रोदूरेभवति तथा व्युच्छेत्यर्थः तथा उर्वीं गव्यूतिं भूमिं अभयं नोस्माकं कृधि कुरु किञ्च द्वेषोस्मत् द्वेष्टृन् यावय अस्मत्त् पृथक्कुरु । वसूनि शत्रूणां धनानि आभर आहर । राधोधनं चोदय प्रेरय गृणते स्तुवते मह्यं हे मघोनि हेधनवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४