मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७८, ऋक् १

संहिता

प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते ।
उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥

पदपाठः

प्रति॑ । के॒तवः॑ । प्र॒थ॒माः । अ॒दृ॒श्र॒न् । ऊ॒र्ध्वाः । अ॒स्याः॒ । अ॒ञ्जयः॑ । वि । श्र॒य॒न्ते॒ ।
उषः॑ । अ॒र्वाचा॑ । बृ॒ह॒ता । रथे॑न । ज्योति॑ष्मता । वा॒मम् । अ॒स्मभ्य॑म् । व॒क्षि॒ ॥

सायणभाष्यम्

अस्याः प्रथमाः प्रथमोत्पन्नाः केतवः प्रज्ञापकारश्मयः प्रत्यदृश्रन् प्रतिदृश्यन्ते अस्या अञ्चयोव्यञ्चकारश्मयः ऊर्ध्वा ऊर्ध्वमुखा विश्रयन्ते विविधं सर्वत्र श्रयन्ति हे उषोदेवि अर्वाचा अस्मदभिमुखेनागच्छता बृहता महता ज्योतिष्मता तेजोवता रथेन वामं वननीयं धनमस्मभ्यं वक्षि वहसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५