मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७८, ऋक् २

संहिता

प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्ध॒ः प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णन्त॑ः ।
उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥

पदपाठः

प्रति॑ । सी॒म् । अ॒ग्निः । ज॒र॒ते॒ । सम्ऽइ॑द्धः । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्तः॑ ।
उ॒षाः । या॒ति॒ । ज्योति॑षा । बाध॑माना । विश्वा॑ । तमां॑सि । दुः॒ऽइ॒ता । अप॑ । दे॒वी ॥

सायणभाष्यम्

अग्निः समिद्धः सन् सीं सर्वतः प्रतिजरते अभिवर्धते विप्रासोविप्रा मेधाविन ऋत्विजश्च मतिभिः स्तुतिभिरुषसंप्रति गृणन्तः स्तुवन्तो- जरन्ते उषाश्च देवी ज्योतिषा विश्वा सर्वाणि तमांसिदुरितास्मदृउरितानि अपबाधमाना याति ऊर्ध्वंगच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५