मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७८, ऋक् ३

संहिता

ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः ।
अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥

पदपाठः

ए॒ताः । ऊं॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥

सायणभाष्यम्

एता उइतिपूरणः त्याः ता प्रसिद्धा एता विभातीर्विभात्योविभानं कुर्वत्योज्योतिस्तेजः यच्छन्तीः प्रयच्छन्त्यः उषसः पुरस्तात्पूर्वस्यां दिशि प्रत्यदृश्रन् प्रतिदृश्यन्ते ताउषसः सूर्यं यज्ञं अग्निंच अजीजनन्प्रादुरकुर्वन् उषसउदयानन्तरं तेषां संभवात्तज्जनकत्वमुपचर्यते किञ्च अपाचीनं नीचीनमजुष्टमप्रियं सर्वेषा दृष्टिनिरोधकत्वादप्रियत्वं तादृशं तमःअगात् अपगतमभूत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५