मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७९, ऋक् १

संहिता

व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती ।
सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥

पदपाठः

वि । उ॒षाः । आ॒वः॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ । क्षि॒तीः । मानु॑षीः । बो॒धय॑न्ती ।
सु॒स॒न्दृक्ऽभिः॑ । उ॒क्षऽभिः॑ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः॑ । रोद॑सी॒ इति॑ । चक्ष॑सा । आ॒व॒रित्या॑वः ॥

सायणभाष्यम्

जनानां सर्वप्राणिनां पथ्या पथिहितोषाः व्यावः व्यौच्छत् । यद्वा जनानां हिताय व्यौच्छदिति योज्यम् । किंकुर्वती मानुषीर्मनुष्यरूपाः पञ्चक्षितीः निषादपञ्चमांश्चतुरोवर्णान्बोधयन्ती ईदृश्युषाः । सुसन्दृग्भिः सन्दृश्यते सन्दर्शयतीतिवा सन्दृक् तेजः सुतेजोभिः उक्षभिः गोभिर्भानुमश्रेत् । अरुणैरुषाआजिमधावन्नितिहिश्रुतिः । अरुण्योगावउषसामितिनिरुक्तम् । सूर्यश्च रोदसी द्यावापृथिव्यौ तमोयुक्ते चक्षसा प्रकाशकेन तेजसा व्यावोविवृणोति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६