मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७९, ऋक् २

संहिता

व्य॑ञ्जते दि॒वो अन्ते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतन्ते ।
सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ बा॒हू ॥

पदपाठः

वि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते॑षु । अ॒क्तून् । विशः॑ । न । यु॒क्ताः । उ॒षसः॑ । य॒त॒न्ते॒ ।
सम् । ते॒ । गावः॑ । तमः॑ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः॑ । य॒च्छ॒न्ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ ॥

सायणभाष्यम्

उषसः अक्तून् तेजांसि दिवोन्तरिक्षस्यान्तेषु पर्यन्तप्रदेशेषु व्यञ्चते व्यक्तीकुर्वन्तीत्यर्थः युक्ताः परस्परं संयुक्ताः विशोन प्रजाइव सेनाइव यतन्ते प्रयतन्ते तमोनाशनायात्र गमनाय वा । अथ प्रत्यक्षवादः हे उषस्ते तव गावोरश्मयस्तमोन्धकारं समावर्तयन्ति नाशयन्ति ज्योतिस्तेजोयच्छन्ति प्रयच्छन्ति । सविता सूर्योबाहूइव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६