मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७९, ऋक् ५

संहिता

दे॒वंदे॑वं॒ राध॑से चो॒दय॑न्त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रय॑न्ती ।
व्यु॒च्छन्ती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

दे॒वम्ऽदे॑वम् । राध॑से । चो॒दय॑न्ती । अ॒स्म॒द्र्य॑क् । सू॒नृताः॑ । ई॒रय॑न्ती ।
वि॒ऽउ॒च्छन्ती॑ । नः॒ । स॒नये॑ । धियः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

देवंदेवं सर्वमपिस्तोतारं राधसे धनाय चोदयन्ती प्रेरयन्ती अस्मद्मक् अस्मदभिमुखं सूनृता वचांसि ईरयन्ती प्रेरयन्ती व्युच्छन्ती व्युच्छनं कुर्वती नोस्माकं सनये दानाय धनलाभाय धियोबुद्धीः धाः धेहि शिष्टं स्पष्टम् ॥ ५ ॥

प्रतिस्तोमेभिरिति तृचात्मकं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् प्रतितृचमित्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६