मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८०, ऋक् १

संहिता

प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् ।
वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

प्रति॑ । स्तोमे॑भिः । उ॒षस॑म् । वसि॑ष्ठाः । गीः॒ऽभिः । विप्रा॑सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् ।
वि॒ऽव॒र्तय॑न्तीम् । रज॑सी॒ इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । आ॒विः॒ऽकृ॒ण्व॒तीम् । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

विप्रासोमेधाविनोवसिष्ठाः वसिष्ठगोत्राः स्तोमेभिः स्तोतृभिः प्रयुज्यमानागीर्भिः स्तुतिभिः प्रथमा इतरयजमानेभ्यः पूर्वभूताः सन्तः उषसं प्रत्यबुध्रन् प्रतिबोधयन्ति । कीदृशीमुषसं चरजसी द्यावापृथिव्यौ समन्ते समानपर्यन्ते एकीभूतप्रान्ते विवर्त्ययन्तीं व्यावर्तयन्तीं विश्वा सर्वाणि भुवनानि भूतजातान्याविष्कृण्वतीं प्रकटीकुर्वतीं स्वभासा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७