मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८०, ऋक् २

संहिता

ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि ।
अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥

पदपाठः

ए॒षा । स्या । नव्य॑म् । आयुः॑ । दधा॑ना । गू॒ढ्वी । तमः॑ । ज्योति॑षा । उ॒षाः । अ॒बो॒धि॒ ।
अग्रे॑ । ए॒ति॒ । यु॒व॒तिः । अह्र॑याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् ॥

सायणभाष्यम्

एषोषाः स्या सा गतदिवसेषु प्रसिद्धा अदृश्यमानैषा नव्यं नवतरं आयुरायुष्यं यौवनमित्यर्थः तादृशं दधाना धारयन्ती गूढ्वी गूढंतमो- न्धकारं ज्योतिषा स्वतेजसा निवारयन्ती अबोधि बुध्यते अग्रे पुरोदेशे सूर्यस्य पुरस्तात् देवानामग्रेवा इतरदेवेभ्यः पूर्वमित्यर्थः युवतिः नित्यतरुणी सर्वत्रमिश्रयन्ती वा अह्रयाणा लुप्तोपमैषा अलज्जा युवतिरिव सायथा पत्युरग्रे सञ्चरातं तद्वत सूर्यस्य पुरस्तादेति एवंभूता- सती सूर्यं यज्ञमग्निं च प्राचिकितत् प्रज्ञापयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७