प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः ।
अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥
प्रति॑ । ऊं॒ इति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । उ॒च्छन्ती॑ । दु॒हि॒ता । दि॒वः ।
अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तमः॑ । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ॥
यस्यनिःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ षष्ठोध्यायोव्याख्यायते । सप्तमे मण्डले पञ्चमेनुवाके दशसूक्तानि व्याकृतानि प्रत्युअदर्शीति षळृचमेकादशं सूक्तम् वसिष्ठस्यार्ष- मुषस्यम् प्रथमाद्या अयुजोबृहत्यः द्वितीयाद्यायुजः सतोबृहत्यः तथाचानुक्रान्तं-प्रत्युषट्प्रागाथमिति । प्रातरनुवाके उषस्येक्रतौ बार्ह- तेछन्दसि आश्विनशस्त्रेच इदंसूक्तं सूत्रितञ्च-प्रत्युअदर्शिसहवामेनेति बार्हतमिति ।
आयती आगच्छन्ती व्युच्छन्ती तमांसि विवासयन्ती वर्जयन्ती दिवः द्युलोकस्य सूर्यस्यवा दुहिता पुत्री एवंभूताउषाःप्रत्यदर्शि सर्वैः प्रतिदृश्यते उइतिपूरकः सोषा महि महत् तमोनैशमन्धकारं अप उ इति निपातद्वयसमुदायः अपेत्यस्यार्थे अपोव्ययति अपवृणोति । किमर्थं चक्षसे दर्शनार्थं एवं कृत्वा सूनरी जनानांसुष्ठु नेत्री उषा ज्योतिः प्रकाशं कृणोति करोति ॥ १ ॥