मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८१, ऋक् २

संहिता

उदु॒स्रिया॑ः सृजते॒ सूर्य॒ः सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥

पदपाठः

उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।
तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥

सायणभाष्यम्

सूर्यः सर्वस्य प्रेरकआदित्यः उस्रियाः रश्मीन् सचा सह युगपदेव उत्सृजते उद्गमयति तथा उद्यत् उद्गच्छत् प्रादुर्भवन्नक्षत्रं नभसि दृश्यमानं ग्रहनक्षत्रादिकं अर्चिवत् दीप्तिमत्करोति सौरेण तेजसाहि नक्तं चन्द्रप्रभृतीनि नक्षत्राणि भासन्ते । सुषुम्नः सूर्यरश्मिश्चन्द्रमा- गन्धर्वइतिहिनिगमः । एवञ्च सति हे उषः उषोदेवते तव सूर्यस्यच व्युषि विवासने प्रकाशते सति भक्तेनान्नेन सङ्गमेमहि वयं सगच्छेमहि इच्छब्दः पूरकः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः