उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।
तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥
उ॒च्छन्ती॑ । या । कृ॒णोषि॑ । मं॒हना॑ । म॒हि॒ । प्र॒ऽख्यै । दे॒वि॒ । स्वः॑ । दृ॒शे ।
तस्याः॑ । ते॒ । र॒त्न॒ऽभाजः॑ । ई॒म॒हे॒ । व॒यम् । स्याम॑ । मा॒तुः । न । सू॒नवः॑ ॥
हे महि महति देवि दानादिगुणयुक्ते उषोदेवते व्युच्छन्ती तमांसि वर्जयन्ती मंहना महिम्नायुक्ता यद्वा मंहतिर्दानकर्मा दानयुक्ता या त्वं स्वः सर्वंजगत् प्रख्यै प्रबोधनार्थं दृशे दर्शनार्थञ्च कृणोषि करोषि । तस्यास्तादृश्याः सत्नभाजः रत्नानां रमणीयानां धनानां भाजयित्र्याः सेवयित्र्याः ईमहे याचामहे किं रत्नभाजइति समभिव्याहारात् रत्नानीति गम्यते । अपिच वयंते तव प्रियतमाः स्याम भवेम मातुर्न सूनवः यथा मातुर्जनन्याः सूनवः पुत्राः प्रियतमाभवन्ति तद्वत् ॥ ४ ॥