मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८१, ऋक् ६

संहिता

श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।
चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

पदपाठः

श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽम॑तः ।
चो॒द॒यि॒त्री । म॒घोनः॑ । सू॒नृता॑ऽवती । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

हे उषः सूरिभ्यः स्तोतृभ्योस्मभ्यं अमृतं मरणरहितं नित्यं वसुत्वनं वासकं वसुत्वयुक्तं वा श्रवः श्रवणीयं यशः रास्वेत्यनुषङ्ग तथा गोमतः बहुभिर्गोभिर्युक्तान् वाजान् अन्नानि चास्मभ्यं रास्व । शिष्टः परोक्षकृतः मद्योनोहविष्मतोयजमानस्य चोदयित्री प्रेरयित्री प्रेरयित्री सूनृतावती प्रियसत्यात्मिका वाक सूनृता तद्वती उषाः स्निधः शोषकान् शत्रून् अपोच्छत् अपगमयतु ॥ ६ ॥

इन्द्रावरुणेति दशर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं जागतम् इदमादीनि चत्वारिसूक्तानीन्द्रावरुणदेवतानि तथाचानुक्रान्तम्-इन्द्रा- वरुणादशैन्द्रावरुणाह जागतंत्विति । तृतीयेसवने उक्थ्ये प्रशास्तुः शस्त्रे एतत्सूक्तम् सूत्रितमं-इन्द्रावरुणायुवमावांराजानाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः