मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् १

संहिता

इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्य॑ः ॥

पदपाठः

इन्द्रा॑वरुणा । यु॒वम् । अ॒ध्व॒राय॑ । नः॒ । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ।
दी॒र्घऽप्र॑यज्युम् । अति॑ । यः । व॒नु॒ष्यति॑ । व॒यम् । ज॒ये॒म॒ । पृत॑नासु । दुः॒ऽध्यः॑ ॥

सायणभाष्यम्

हे इन्द्रावरुणा इन्द्रावरुणौ युवं युवां नोस्माकं विशेनिवेशयित्रे परिचारकाय जनाय पुत्रपौत्रादिलक्षणाय अध्वराय यज्ञानुष्ठानार्थं महि महत् शर्म गृहं सुखंवा यच्छतं प्रयच्छतम् अपिच दीर्घप्रयज्युं दीर्घप्रततयज्ञं अस्मदीयं जनं यः शत्रुरतिवनुशष्यति अति जिघां- सति पृतनासु संग्रामेषु दूढ्यः दुर्धियाः दुष्टाभिसन्धीन् तान् शत्रून् वयं जयेमाभिभवेम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः