मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् २

संहिता

स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू ।
विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥

पदपाठः

स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू ।
विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥

सायणभाष्यम्

द्वितीयः पादःपरोक्षकृतः शिष्टाःप्रत्यक्षकृताः हे इन्द्रावरुणौ वां युवयोर्मध्ये अन्यएकोवरुणः सम्राट् सम्यग्रजमानइत्युच्यते । तासम्राजा- घृतासुतीत्यादिषुकीर्त्यते । अन्यइन्द्रः स्वराट् स्वयमेव अन्यनिरपेक्षयैव राजमानइत्युच्यते । स्वराळीन्द्रोदमइत्यादिषुकीर्त्यते । तथाविध- विन्द्रावरुणा इन्द्रावरुणौ महान्तौ गुणैरधिकौ महावसु महाधनौ च भवतः । हे वृषणा कामानां वर्षिताराविन्द्रावरुणौ वां युवां परमे व्योमनि उत्कृष्टे आकाशे विशेदेवासः सर्वेदेवाः ओजः सन्दधुः समयोजयन् शरीरदार्ढ्याय तद्धेतुभूतं तदोजइत्युच्यते स्मर्यतेच ओजः साष्टमीदशेति तथा बलं वृत्रवधादेः कार्यस्य हेतुभूतं सामर्थ्यंच युवाभ्यां सन्दधुः समयोजयन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः