मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ४

संहिता

यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः ।
ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा॑वरुणा सु॒हवा॑ हवामहे ॥

पदपाठः

यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः ।
ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ वह्नयोहविषां स्तोत्रणां वा वोढारः ऋत्विजः युत्सु युद्धेषु पृतनासु शत्रुसेनासु रक्षणार्थं युवामित् युवामेव हवन्ते आह्वयन्ति मितज्ञवः संकुचितजानुकाः अंगिरसोपि क्षेमस्य रक्षणस्य प्रसवे उत्पादने निमित्तभूते सति युवामेव हवन्ते अतः कारणात् हे इन्द्रावरुणौ कारवः स्तोतारोवयमपि उभयस्य दिव्यस्य पार्थिवस्य च वस्वोवसुनोधनस्य ईशाना ईश्वरौ सुहवा सुखेन ह्वातव्यौ युवामेव हवामहे आह्वयामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः