मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ५

संहिता

इन्द्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ ।
क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥

पदपाठः

इन्द्रा॑वरुणा । यत् । इ॒मानि॑ । च॒क्रथुः॑ । विश्वा॑ । जा॒तानि॑ । भुव॑नस्य । म॒ज्मना॑ ।
क्षेमे॑ण । मि॒त्रः । वरु॑णम् । दु॒व॒स्यति॑ । म॒रुत्ऽभिः॑ । उ॒ग्रः । शुभ॑म् । अ॒न्यः । ई॒य॒ते॒ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ यत् यौ युवां भुवनस्य लोकस्य संबन्धीनि इमानि परिदृश्यमानानि विश्वा सर्वाणि जातानि जातिमन्तिभूतजातानि मज्मना आत्मीयेन बलेन चक्रथुः कृतवन्तौ तयोर्युवयोर्मध्ये एकं वरुणं क्षेमेण रक्षणहेतुना मित्रोदेवोदुवस्यति परिचरति मित्रावरुणौ हि परस्परं प्राप्तसख्यौ अतएव सहचरौ दृश्येते अन्यएकः इन्द्रः मरुद्भिर्मरुद्गणैः उग्रः उद्गूर्णबलः सन् शुभं शोभनमलंकारं ईयते प्राप्नोति यद्वा मरुद्भिर्मध्यस्थानैर्देवगणैःसर्धं उग्रओजस्वी इन्द्रः शुभमदकं ईयते प्रेरयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः