मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८२, ऋक् ७

संहिता

न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा॑वरुणा॒ न तप॒ः कुत॑श्च॒न ।
यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥

पदपाठः

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तानि॑ । मर्त्य॑म् । इन्द्रा॑वरुणा । न । तपः॑ । कुतः॑ । च॒न ।
यस्य॑ । दे॒वा॒ । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त॑स्य । न॒श॒ते॒ । परि॑ऽह्वृतिः ॥

सायणभाष्यम्

हे इन्द्रावरुणा इन्द्रावरुणौ तं मर्त्यं मनुष्यं अहः पापं ननशते नव्याप्नोति नच दुरितानि दुर्गमनानि पापफलानिच प्राप्नुवन्ति कुतश्चन कस्मादपि निमित्तात्तपः सन्तापश्च तं नप्राप्नोति हे देवादेवौ दानादिगुणयुक्ताविन्द्रावरुणौ यस्य मर्तस्य मनुष्यस्य अध्वरं यज्ञं गच्छथः प्राप्नुथोयुवाम वीथः कामयेथेच यस्य हवींषि तं मनुष्यं परिह्रुतिः परिबाधा नशते उक्तप्रकारेण नव्याप्नोति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः