मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् २

संहिता

यत्रा॒ नरः॑ स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् ।
यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥

पदपाठः

यत्र॑ । नरः॑ । स॒म्ऽअय॑न्ते । कृ॒तऽध्व॑जः । यस्मि॑न् । आ॒जा । भव॑ति । किम् । च॒न । प्रि॒यम् ।
यत्र॑ । भय॑न्ते । भुव॑ना । स्वः॒ऽदृशः॑ । तत्र॑ । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । अधि॑ । वो॒च॒त॒म् ॥

सायणभाष्यम्

यत्र यस्मिन्संग्रामे नरोमनुष्याः कृतध्वजः उच्छ्रितध्वजाः समयन्ते युद्धार्थं संगच्छन्ते यस्मिंश्च आजा आजौ युद्धे चनेति निपातद्वयसमु- दायोविभज्ययोजनीयः किञ्च किमपि प्रियमनुकूलं नभवति अपितु सर्वं दुष्करं भवति । यत्रच युद्धे भुवना भुवनानि भूतजातानि स्व- र्दृशः शरीर्पातसदूर्ध्वं स्वर्गस्य द्रष्टारोवीराश्च भयन्ते बिभ्यति तत्र तादृशे संग्रामे हे इन्द्रावरुणौ नोसमानधिवोचतं अस्मत्पक्षपातवचनौ भवतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः