मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ३

संहिता

सं भूम्या॒ अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् ।
अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ॥

पदपाठः

सम् । भूम्याः॑ । अन्ताः॑ । ध्व॒सि॒राः । अ॒दृ॒क्ष॒त॒ । इन्द्रा॑वरुणा । दि॒वि । घोषः॑ । आ । अ॒रु॒ह॒त् ।
अस्थुः॑ । जना॑नाम् । उप॑ । माम् । अरा॑तयः । अ॒र्वाक् । अव॑सा । ह॒व॒न॒ऽश्रु॒ता॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे इन्द्रावरुणौ भूम्याअन्ताः पर्यन्ताः ध्वसिराः सैनिकैर्ध्वस्ताः समदृक्षतं संदृश्यन्ते तथा दिवि द्युलोके घोषः सैनिकानां शब्दश्च आरुहत् आरूढोभवत् जनानामस्मदीयानां भटानां अरातयः शत्रवः मामुपास्थुः उपास्थिताः एवं प्रवर्तमानेस्मिन् युद्धे हे हवनश्रुता आह्वान- श्रवणशीलाविन्द्रावरुणौ अर्वागस्मदभिमुखं अवसा रक्षणेन सह आगतमागच्छतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः