मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ५

संहिता

इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः ।
यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥

पदपाठः

इन्द्रा॑वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा॒ । अ॒घानि॑ । अ॒र्यः । व॒नुषा॑म् । अरा॑तयः ।
यु॒वम् । हि । वस्वः॑ । उ॒भय॑स्य । राज॑थः । अध॑ । स्म॒ । नः॒ । अ॒व॒त॒म् । पार्ये॑ । दि॒वि ॥

सायणभाष्यम्

हे इन्द्रावरुणौ अर्यः अरेः शत्रोः संबन्धीनि अघान्याहन्तॄण्यायुधानि मा मां अभ्यातपन्ति अभितोबाधन्ते अपिच वनुषां हिंसकानां मध्ये अरातयः अभिगमनशीलाः शत्रवश्च मामभितपन्ति युवं हि युवां खलु उभयस्य पार्थिवस्य दिव्यस्यच वस्वोवसुनोधनस्य राजथः ईशाथे राजतिरैश्वर्यकर्मा अधस्म अतः कारणात् पार्ये तरणीये दिवि दिवसे युद्धदिने नोस्मानवतं रक्षतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः