मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ६

संहिता

यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ ।
यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥

पदपाठः

यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया॑सः । आ॒जिषु॑ । इन्द्र॑म् । च॒ । वस्वः॑ । वरु॑णम् । च॒ । सा॒तये॑ ।
यत्र॑ । राज॑ऽभिः । द॒शऽभिः॑ । निऽबा॑धितम् । प्र । सु॒ऽदास॑म् । आव॑तम् । तृत्सु॑ऽभिः । स॒ह ॥

सायणभाष्यम्

उभयासः उभयविधाः सुदाःसंज्ञोराजा तत्सहायभूतास्तृत्सवश्च एवं द्विप्रकाराजनाः आजिषु संग्रामेषु इन्द्रञ्च वरुणञ्च युवां हवन्ते आह्व- यन्ते किमर्थं वस्वोधनस्य सातये संभजनार्थं यत्र येष्वाजिषु दशभिर्दशसंख्याकैः राजभिः शत्रुभूतैः नृपैः निबाधितं नितरां हिंसितं सुदासं तृत्सुभिः सहवर्तमानं प्रावतं युवां प्रकर्षेणारक्षतं तेष्वाजिष्वित्यन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः