मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ७

संहिता

दश॒ राजा॑न॒ः समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः ।
स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥

पदपाठः

दश॑ । राजा॑नः । सम्ऽइ॑ताः । अय॑ज्यवः । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । न । यु॒यु॒धुः॒ ।
स॒त्या । नृ॒णाम् । अ॒द्म॒ऽसदा॑म् । उप॑ऽस्तुतिः । दे॒वाः । ए॒षा॒म् । अ॒भ॒व॒न् । दे॒वऽहू॑तिषु ॥

सायणभाष्यम्

हे इन्द्रावरुणौ दशसंख्याकाः राजानः सुदासः शत्रवः सांमेताः संगताः परस्परं समवेताः अयज्यवः अयजमानाः एवंभूतास्ते सुदासं एतत्संज्ञं एकमपिराजानं न युयुधुः न सम्प्रजह्रुः युवाभ्यामनुगृहीतं तं प्रहर्तुं न शेकुः तदानीं अद्मसदां अद्मनि अन्ने हविषि सीदतीति अद्मसदऋत्विजः हविर्भिर्युक्तानां नृणां यज्ञस्य नेतॄणां ऋत्विजां उपस्तुतिः स्तोत्रं सत्या सफलाभूत् अपिच एषां देवहूतिषु देवाहूयन्तेयेषु इतिदेवहूतयोयज्ञाः तेषु सर्वे च देवाअभवन् युष्मदनुग्रहात्प्रादुर्भवन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः