मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ८

संहिता

दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् ।
श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीव॑न्तो॒ अस॑पन्त॒ तृत्स॑वः ॥

पदपाठः

दा॒श॒ऽरा॒ज्ञे । परि॑ऽयत्ताय । वि॒श्वतः॑ । सु॒ऽदासे॑ । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒शि॒क्ष॒त॒म् ।
श्वि॒त्यञ्चः॑ । यत्र॑ । नम॑सा । क॒प॒र्दिनः॑ । धि॒या । धीऽव॑न्तः । अस॑पन्त । तृत्स॑वः ॥

सायणभाष्यम्

हे इन्द्रावरुणौ दाशराज्ञे दशशब्दस्य छान्दसोदीर्घः विभक्तिव्यत्ययः दशभीराजभिः शत्रुभूतैः विश्वतः सर्वतः परिय्हत्ताय परिवेष्टिताय सुदासे राज्ञे अशिक्षतं बलं प्रायच्छतम् यत्र यस्मिन्देशे श्वित्यञ्चः श्वितं श्वैत्यं नैर्मल्यं अञ्चन्तोगच्छन्तः कपर्दिनोजटिलाधीवन्तः कर्मभि- र्युक्तास्तृत्सवः वसिष्ठशिष्याः एतत्संज्ञाऋत्विजः नमसा हविर्लक्षणेनान्नेन धिया स्तुत्या च असपन्त पर्यचरन् तस्मिन्देशे युवां तस्मै राज्ञे बलं प्रायच्छतमित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः