मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८३, ऋक् ९

संहिता

वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ ।
हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरुणा॒ शर्म॑ यच्छतम् ॥

पदपाठः

वृ॒त्राणि॑ । अ॒न्यः । स॒म्ऽइ॒थेषु॑ । जिघ्न॑ते । व्र॒तानि॑ । अ॒न्यः । अ॒भि । र॒क्ष॒ते॒ । सदा॑ ।
हवा॑महे । वा॒म् । वृ॒ष॒णा॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । शर्म॑ । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे इन्द्रावरुणौ यवयोरन्यएकइन्द्रः वृत्राणि शत्रून् समिथेषु संग्रामेषु जिघ्नते हन्ति अन्यएकोवरुणः सदा सर्वदा व्रतानि कर्माणि अभि- रक्षते अभितः सर्वतोरक्षति हे वृषणा कामानां वर्षिताराविन्द्रावरुणौ तथाविधौ वां युवां सुवृक्तिभिः सुप्रवृत्ताभिः स्तुतिभिः हवामहे आह्वयामहे आहूतौ च युवां अस्मे अस्मभ्यं शर्म सुखं यच्छतं दत्तम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः