मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८४, ऋक् १

संहिता

आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥

पदपाठः

आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्या॒म् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
प्र । वा॒म् । घृ॒ताची॑ । बा॒ह्वोः । दधा॑ना । परि॑ । त्मना॑ । विषु॑ऽरूपा । जि॒गा॒ति॒ ॥

सायणभाष्यम्

हे राजानौ राजमानौ ईश्वरौवा इन्द्रावरुणौ अध्वरे हिंसारहितेस्मिन्यागे वां युवां हव्येभिर्हविर्भिर्नमोभिः स्तोत्रैश्च आववृत्यां आवर्त- यामि अपिच बाह्वोर्हस्तयोर्दधाना धार्यमाणा विषुरूपा रूप्यतइति रूपं हविः विविधहविर्युक्ता घृताची घृतमञ्चन्ती जुहू त्मना आत्म- ना स्वयमेव वां युवां परि प्रजिगाति अभिप्रगच्छति यद्वा विषुरूपा नानाविधरूपौ वामिति योज्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः