मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८४, ऋक् २

संहिता

यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑ः सिनी॒थः ।
परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑ः कृणवदु लो॒कम् ॥

पदपाठः

यु॒वोः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः ।
परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

हे इन्द्रावरुणौ युवोर्युवयोः बृहन्महत् राष्ट्रं राज्यं द्यौः द्युलोकरूपं इन्वति वृष्ट्या सर्वान् प्रीणयति यौ युवां सेक्तृभिर्बन्धकैः अरज्जुभिः रज्जुरहितैः रोगादिभिः सिनीथः पापकृतोबध्नीथः षिञ् बन्धने इतिधातुः तयोर्मध्ये वरुणस्य वारयितुर्देवस्य हेळः क्रोधः नोस्मान्परिवृ- ज्याः परिवृणक्तु परित्यज्यान्यत्रगच्छतु । इन्द्रउ इन्द्रश्च उरुं विस्तीर्णं लोकं स्थानं कृणवत्करोतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः