मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८४, ऋक् ३

संहिता

कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता ।
उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥

पदपाठः

कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे॑षु । चारु॑म् । कृ॒तम् । ब्रह्मा॑णि । सू॒रिषु॑ । प्र॒ऽश॒स्ता ।
उपो॒ इति॑ । र॒यिः । दे॒वऽजू॑तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒म् ॥

सायणभाष्यम्

हे इन्द्रावरुणौ नोस्माकं विदथेषु गृहेषु क्रियमाणं यज्ञं चारुं शोभनं फलसहितं कृतं कुरुतम् तथा सूरिषु स्तोतृष्वस्मासु विद्यमानानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रशस्ता प्रशस्तानि उत्कृष्टानि कृतं कुरुतम् । अपिच देवजूतः देवाभ्यां युवाभ्यां प्रेरितोरयिर्धनं नोस्मानुपैतु प्राप्नोतु तथा स्पार्हाभिः स्पृहणीयाभिरूतिभिः रक्षाभिर्नोस्मान् प्रतिरेतं युवां वर्धयेथाम् प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः