मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८५, ऋक् २

संहिता

स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यव॒ः पत॑न्ति ।
यु॒वं ताँ इ॑न्द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑च॒ः शर्वा॒ विषू॑चः ॥

पदपाठः

स्पर्ध॑न्ते । वै । ऊं॒ इति॑ । दे॒व॒ऽहूये॑ । अत्र॑ । येषु॑ । ध्व॒जेषु॑ । दि॒द्यवः॑ । पत॑न्ति ।
यु॒वम् । तान् । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒मित्रा॑न् । ह॒तम् । परा॑चः । शर्वा॑ । विषू॑चः ॥

सायणभाष्यम्

देवहूये देवाविजिगीषवोयोद्धारोहूयन्ते युद्धार्थं परस्परमाहूयन्ते हतिदेवहूयन्ते इतिदेवहूयः सङ्ग्रामः अत्रास्मिन् देवहूये संग्रामे स्पर्धन्ते वै शत्रवोस्माभिः स्पर्धन्ते खलु उइतिपूरकः येषु संग्रामेषु ध्वजेषु पताकासु दिद्यवः शत्रुक्षिप्तान्यायुधानि पतन्ति तान् तेषु संग्रामेषु विद्यमानान् अमित्रान् शत्रून् हे इन्द्रावरुणौ युवं युवां शर्वा शरुणा हिंसकेनायुधेन पराचः पराङ्मुखान् विषूचः विविधगतींश्च हतं हिंस्तं तथा ते शत्रवः पराङ्मुखाः इतस्ततः पलायमानाश्च भवन्ति तथा तान्बाधेथामित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः