मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८५, ऋक् ३

संहिता

आप॑श्चि॒द्धि स्वय॑शस॒ः सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः ।
कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ॥

पदपाठः

आपः॑ । चि॒त् । हि । स्वऽय॑शसः । सदः॑ऽसु । दे॒वीः । इन्द्र॑म् । वरु॑णम् । दे॒वता॑ । धुरिति॒ धुः ।
कृ॒ष्टीः । अ॒न्यः । धा॒रय॑ति । प्रऽवि॑क्ताः । वृ॒त्राणि॑ । अ॒न्यः । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ॥

सायणभाष्यम्

आपश्चित् अब्विकाराः सोमाश्च स्वयशसः स्वायत्तयशस्काः देवीर्द्योतमानाः सन्तः सदःसु सदनेषु स्थानेषु इन्द्रं वरुणंच देवता एते द्वेदे- वते धुः धारयन्ति अवस्थापयन्ति सोमेनाप्यायिताहि देवताः स्वेस्वेस्थानेवतिष्ठन्ते । यद्वा वसतीवर्याख्या आपएव सोमाभिषवद्वारा सदनेषु इन्द्रं वरुणञ्च धारयन्ति तयोरिन्द्रावरुणयोरन्यएकः प्रविक्ताः प्रुथक्कृताः पुण्यापुण्यविवेकेन विचित्रफलभोक्वीः कृष्टीः प्रजा असाङ्कर्येण धारयति अन्यइन्द्रः वृत्राणि शत्रुजातानि अप्रतीनि अन्यैरप्रतिगतानि हन्ति हिनस्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः