मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८५, ऋक् ५

संहिता

इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।
सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

व्याख्यातेयं मदीयास्तुतिरिन्द्रं वरुणं चाश्नुतम् मया प्रेर्यमाणा सा पुत्रे पौत्रेच विषये अस्मान् प्ररक्षतु वयं शोभनधनाः सन्तः उत्तरोत्तरं यज्ञं प्राप्नुयाम हे इन्द्रावरुणादयोदेवाः अस्मान्सर्वदा कल्याणैः रक्षत ॥ ५ ॥

धीरात्वस्येत्यष्टर्चं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वरुणदेवत्यं तथाचानुक्रान्तम्-धीराष्टौवारुणंहेति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः