मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८६, ऋक् २

संहिता

उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि ।
किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥

पदपाठः

उ॒त । स्वया॑ । त॒न्वा॑ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु॑णे । भु॒वा॒नि॒ ।
किम् । मे॒ । ह॒व्यम् । अहृ॑णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒ऽमनाः॑ । अ॒भि । ख्य॒म् ॥

सायणभाष्यम्

वरुणं शीघ्रं दिदृक्षमाणऋषिरनयावितर्कयति उतेति विचिकित्सायाम् उत किं स्वया तन्वा स्वीयेन आत्मीयेन शरीरेण संवदे सहवदनं करोमि आहोस्वित् तत्तेन वरुणेन सहसंवदे कदानु कदा खलु वरुणे देवे अन्तर्भूतोभवानि वरुणस्य चित्ते संलग्नोभवानीत्यर्थः अपिच मे मदीयं हव्यं स्तोत्रं हविर्वा अहृणानोकुध्यन् वरुणः किं केन हेतुना जुषेत सेवेत सुमनाः शोभनमनस्कः सन्नहं कदा कस्मिन्काले मृळीकं सुखयितारं वरुणं अभिख्यं अभिपश्येयम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः