मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८६, ऋक् ४

संहिता

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् ।
प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥

पदपाठः

किम् । आगः॑ । आ॒स॒ । व॒रु॒ण॒ । ज्येष्ठ॑म् । यत् । स्तो॒तार॑म् । जिघां॑ससि । सखा॑यम् ।
प्र । तत् । मे॒ । वो॒चः॒ । दुः॒ऽद॒भ॒ । स्व॒धा॒ऽवः॒ । अव॑ । त्वा॒ । अ॒ने॒नाः । नम॑सा । तु॒रः । इ॒या॒म् ॥

सायणभाष्यम्

हे वरुण ज्येष्टमधिकं किं आगः आस कोपराधोमयाकृतोबभूव् यत् येन आगसा सखायं मित्रभूतं सन्तं स्तोतारं जिघांससि हन्तुमिच्छसि । हे दूळभ दुर्दभ अन्यैर्बाधितुमशक्य स्वधावस्तेजस्विन् हे वरुण तदागः मे मह्यं प्रवोचः प्रब्रूहि एवं सति तस्यप्रायश्चित्तं कृत्वा अनेनाः अपापः सन्नहंतुरस्त्वरमाणः शीघ्रः नमसा नमस्कारेण हविषा वा त्वा त्वां अवेयां अवगच्छेयम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः