न स स्वो दक्षो॑ वरुण॒ ध्रुति॒ः सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।
अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥
न । सः । स्वः । दक्षः॑ । व॒रु॒ण॒ । ध्रुतिः॑ । सा । सुरा॑ । म॒न्युः । वि॒ऽभीद॑कः । अचि॑त्तिः ।
अस्ति॑ । ज्याया॑न् । कनी॑यसः । उ॒प॒ऽअ॒रे । स्वप्नः॑ । च॒न । इत् । अनृ॑तस्य । प्र॒ऽयो॒ता ॥
हे वरुण सः स्वोदक्षः पुरुषस्य स्वरूपवद्बलं पापप्रवृत्तौ कारणं न भवति किं तर्हि ध्रुतिः स्थिराउत्पत्तिसमयएव निर्मिता दैवगतिः कारणम् । ध्रुगतिस्थैर्ययोरितिधातुः । साच ध्रुतिः वक्ष्यमाणरूपासुरा प्रमादकारिणी मन्युः क्रोधश्च गुर्वादिविषयः सन् अनर्थहेतुः विभीदकः द्यूतसाधनोक्षः सच द्यूतेषु पुरुषं प्रेरयन्ननर्थहेतुर्भवति अचित्तिः अज्ञानं अविवेककारणं अतईदृशी दैवकॢप्तिरेव पुरुषस्य पापप्र- वृत्तौ कारणम् अपिच कनीयसः अल्पस्य हीनस्य पुरुषस्य पापप्रवृत्तौ उपारे उपागते समीपे नियंतृत्वेनस्थितः ज्यायानधिकः ईश्वरोस्ति सएव तं पापेप्रवर्तयति तथाचाम्नातम्-एषत्द्येवासाधुकर्मकारयति तंयमधोनिनीषतइति । एवंच सतिस्वप्नश्चनस्वप्नोपि अनृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता भवति इदितिपूरकः स्वमे कृतैरपि कर्मभिर्बहूनि पापानि जायन्ते किमुवक्तव्यं जाग्रतिकृतैः कर्मभिः पापान्यु- त्पद्यन्तइति । अतोममापरा धोदैवागतइति हे वरुण त्वया क्षन्तव्य इतिभावः ॥ ६ ॥