मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८७, ऋक् १

संहिता

रद॑त्प॒थो वरु॑ण॒ः सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् ।
सर्गो॒ न सृ॒ष्टो अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥

पदपाठः

रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् ।
सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥

सायणभाष्यम्

अयं वरुणोदेवः सूर्याय सर्वस्य प्रेरकायादित्याय पथोमार्गान् अन्तरिक्षप्रदेशान् प्ररदत् प्रायच्छत् समुद्रिया समुद्रे उदधौ भवानि यद्वा समुद्रवन्त्यस्मादापइति समुद्रमन्तरिक्षं तत्र भवान्यर्णांस्युदकानि नदीनां नदीः प्रति प्रासृजत् सर्गोन सृज्यते युद्धभूमौ सादिनाप्रेर्यतइ- ति सर्गोश्वः सयथा सृष्टः प्रेरितः अर्वतीः वडवाः प्रति शीघ्रं गच्छति तद्वत् ऋतायन् ऋतं शीघ्रं गमनमात्मनइच्छन् महीर्महतीः अवनीरात्रीः अहभ्यः अहोभ्यः सकाशात् चकार भेदेन कृतवान् अस्तंगच्छन् सूर्यएव वरुणइत्युच्यते सहि स्वगमनेन रात्रीर्जनयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः