मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८७, ऋक् २

संहिता

आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् ।
अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥

पदपाठः

आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् ।
अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥

सायणभाष्यम्

हे वरुण ते त्वदीयः त्वया अन्तरिक्षे प्रेर्यमाणो वातो वायुरात्मा सर्वस्य प्राणिजातस्य प्राणरूपेण धारयिता सच रजउदकं आनवीनोत् समन्तात्प्रेरयति वातेनहि वृष्टिर्जायते भूर्णिर्जगतो सवायुर्यवसे घासे प्रक्षिप्ते सति पशुर्न यथा पशुरन्नवान्भवति तद्वत् ससवान् ससमि- त्यन्ननाम तद्वान् भवति हविर्लक्षणमन्नमपि तस्मै प्रयच्छतीर्यर्थः युद्वा सनोतेः क्वसौ रूपं ततः ससवान् संभक्तवान् वातः घासे सति पशुर्यथा भारवाहीभवति तद्वत् जगतोभर्ता । हे वरुण मही महत्यौ बृहती परिवृढे इमे रोदसी द्यावापृथिव्यौ अन्तर्मध्ये द्यावापृथिव्यो- र्मध्ये इत्यर्थः ते तव विश्वा सर्वाणि धाम धामानि स्थानानि तेजांसि वा प्रियाणि सर्वेषां प्रीतिकराणि भवन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः