मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८७, ऋक् ३

संहिता

परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ ।
ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑रा॒ः प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥

पदपाठः

परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥

सायणभाष्यम्

स्पशन्ति स्पृशंतीति स्पशश्चाराः वरुणस्य देवस्य स्पशश्चाराः स्मदिष्टाः स्मदित्ये तत्प्रशस्यार्थे सहार्थेच वर्तते प्रशस्तगतयः यद्वा सहप्रे- षिताः सन्तः सुमेके शोभनमेहने सुरूपेवा उभे रोदसी द्यावापृथिव्यौपरिश्यन्ति परितईक्षन्ते उभयोर्लोकयोर्वर्तमानान् पुण्यापुण्यकारि- णोजनान्पश्यन्तीत्यर्थः यस्मादेवंतस्मात् तद्भीत्या ऋतावानः कर्मवन्तः यज्ञधीराः यज्ञेषु कृतबुद्धयः प्रचेतसः प्राज्ञाः कवयः क्रान्त- दर्शिनोयेजनाः मन्म मन्मानि स्तोत्राणि इषयन्त गमयन्ति वरुणं प्रापयन्ति तानपि परिपश्यन्तीत्यर्थः अतोस्मानपि स्तोतॄन् ज्ञात्वा पापान्मुञ्चत्वित्यृषिराशास्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः