मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८७, ऋक् ४

संहिता

उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।
वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥

पदपाठः

उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ ।
वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥

सायणभाष्यम्

मेधिराय मेधाविने मे मत्द्यं वरुण उवाच उक्तवान् किमुक्तवान् तदाह त्रिः सप्त एकविंशतिसंख्याकानि नाम नामानि अघ्न्या गौर्बिभर्ति धारयतीति वागत्रगौरुच्यते साच उरसि कंण्ठे शिरसिच बद्धानि गायत्र्यादीनि सप्तछन्दसां नामानि बिभर्ति । यद्वा वेदात्मिकावाक् एकविंशतिसंस्थानां यज्ञानां नामानि बिभर्ति धारयति । अपरआह गौः पृथिवी तस्या श्च गौः ग्मा ज्मेति पठितान्येकविंशतिनामानीति । अपिच विद्वान् जानन् विप्रोमेधावी सवरुणः युगाय युक्ताय उपराय उपसमीपे रममाणाय अन्तेवासिने मत्द्यं शिक्षन् उपदिशन् पदस्यो- त्कृष्टस्य स्थानस्य ब्रह्मलोकलक्षणस्य संबन्धीनि गुत्द्या गुत्द्यानि रहस्यानि उपदेशगम्यानि नशब्दश्चार्थे नामानि च वोचत् उक्तवान् अतोहं वरुणस्यशिष्योस्मि तस्मात्सवरुणोस्मात् पापात् मोचयत्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः