मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८७, ऋक् ५

संहिता

ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑रा॒ः षड्वि॑धानाः ।
गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥

पदपाठः

ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः ।
गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥

सायणभाष्यम्

तिस्रः त्रिप्रकाराः उत्तममध्यमाधमभावेन त्रिविधाः द्यावोद्युलोकाः अस्मिन्वरुणे अन्तर्मध्ये निहिताः तिस्रः पूर्ववत्रिविधाः भूमीः भूम्यश्च षड्विधानाः विधानं विधा वसंताद्यृतुभेदेन षड्विधाः प्रकाराः यासु तादृश्यः उपराः अस्मिन्नेव वरुणे उप्ताः अन्तर्भूताः लोकानां त्रित्वंच त्रयोवाइमेत्रिवृतोलोकाइत्यादिनाब्राह्मणेनावगम्यते । तिस्रोभूमीर्धारयन्नितिनिगमश्चभवति । इमौ लोकौ आवृत्य वरुणस्तिष्ठ- तीत्यर्थः अपिच गृत्सःस्तुत्यः राजा ईश्वरः सवरुणः दिव्यन्तरिक्षे हिरण्ययं हिरण्यमयं सुवर्णमयं हितरमणीयं वा प्रेंखं दोलावत् दिग्द्वय- संस्पर्शिनं एतं सूर्यं शुभेकं दीप्त्यर्थं चक्रे कृतवान् दिविसूर्यमदधात्सोममद्रावितिहिश्रूयते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः