यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः ।
अनु॑ व्र॒तान्यदि॑तेरृ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
यः । मृ॒ळया॑ति । च॒क्रुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः ।
अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
आगोपराधं चक्रुषे चित् कृतवतेपि स्तोत्रे योवरुणः मृळयाति उपदयांकरोति तस्मिन्वरुणे अनागाः अनागसः अनपराधाः सन्तोवयं स्याम वर्तमानभवेम । किंकुर्वन्तः अदितेरदीनस्य वरुणस्य सम्बन्धीनि व्रतानि कर्माणि अनु आनुपूर्व्येण ऋधन्तः समर्धयन्तः हे वरुणाद- योदेवाः यूयं अस्मान् सर्वदा कल्याणैः पालयत ॥ ७ ॥
प्रशुन्ध्युवमिति सप्तर्चमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणं प्रशुन्ध्युवमित्यनुक्रान्तम् । गतोविनियोगः ।