मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८८, ऋक् १

संहिता

प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व ।
य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥

पदपाठः

प्र । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठा॑म् । म॒तिम् । व॒सि॒ष्ठ॒ । मी॒ळ्हुषे॑ । भ॒र॒स्व॒ ।
यः । ई॒म् । अ॒र्वाञ्च॑म् । कर॑ते । यज॑त्रम् । स॒हस्र॑ऽमघम् । वृष॑णम् । बृ॒हन्त॑म् ॥

सायणभाष्यम्

ऋषिरात्मानमेव प्रत्यक्षीकृत्य स्तुतौ नियुंक्ते हे वसिष्ठ त्वं मीह्ळुषे सेत्र्के वरुणाय शुन्ध्युवं शोधयित्रीं यद्वा स्वतएव शुद्धां प्रेष्ठां प्रियतमां मतिं मननीयामीदृशीं स्तुतिं प्रभरस्व प्रहर प्रापय । योवरुणाः ईमेनं सूर्यं अर्वाञ्चं अस्मदभिमुखं करते अन्तरिक्षे करोति तस्मै वरुणा- येत्यन्वयः कीदृशं सूर्यं यजत्रं यष्टव्यं सहस्रामघं बहुधनं वृषणं कामानां वर्षकं बृहन्तं महान्तम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०