मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८८, ऋक् ५

संहिता

क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवु॒ः सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।
बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥

पदपाठः

क्व॑ । त्यानि॑ । नौ॒ । स॒ख्या । ब॒भू॒वुः॒ । सचा॑वहे॒ इति॑ । यत् । अ॒वृ॒कम् । पु॒रा । चि॒त् ।
बृ॒हन्त॑म् । मान॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । स॒हस्र॑ऽद्वारम् । ज॒ग॒म॒ । गृ॒हम् । ते॒ ॥

सायणभाष्यम्

हे वरुण त्यानि तानि पुरातनानि नौ आवयोः सख्या सख्यानि सखित्वानि क्व कुत्र बभूवः पुरा पूर्वस्मिन् काले अवृकं अहिंस्यं आत्यन्तिकं यत्सख्यमस्ति तत्सचावहे आवांसेवावहे चिदिति पूरकः अपिच हे स्वधावः अन्नवन्वरुण ते त्वदीयं गृहं जगम गच्छानि लोडर्थे लिट् कीदृशं गृहं बृहन्तं महान्तं मानं मान्त्यस्मिन्सर्वाणि भूतानीति मानं सर्वस्य भूतजातस्य परिच्छेदकमित्यर्थः सहस्रद्वारं बहुद्वारम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०