मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८९, ऋक् १

संहिता

मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् ।
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

पदपाठः

मो इति॑ । सु । व॒रु॒ण॒ । मृ॒त्ऽमय॑म् । गृ॒हम् । रा॒ज॒न् । अ॒हम् । ग॒म॒म् ।
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥

सायणभाष्यम्

हे राजन्नीश्वर वरुण त्वदीयं मृन्मयं मृदादिनिर्मितं गृहं मो माउ मैव अहं गमं गतोस्मि अपितु सुशोभनं सुवर्णमयमेव त्वदीयं गृहं प्राप्न- वानि सत्वं मां मृळ सुखय हे सुक्षत्र शोभनधन वरुण मृळय उपदयाञ्च कुरु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११