मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८९, ऋक् २

संहिता

यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः ।
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

पदपाठः

यत् । एमि॑ । प्र॒स्फु॒रन्ऽइ॑व । दृतिः॑ । न । ध्मा॒तः । अ॒द्रि॒ऽवः॒ ।
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥

सायणभाष्यम्

हे अद्रिवः आयुधवन्वरुण यद्यदा प्रस्फुरन्निव शैत्येन प्रविचलन्निव त्वद्भयाद्वेपमानः दृतिर्न दृतिरिव ध्मातो वायुना पूर्णः सन् त्वया बद्धोहं एमि गच्छामि तदानीं मृळ सुखय हे सुक्षत्र सुधन मृळय दयां कुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११