मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८९, ऋक् ३

संहिता

क्रत्व॑ः समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे ।
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

पदपाठः

क्रत्वः॑ । स॒म॒ह॒ । दी॒नता॑ । प्र॒ति॒ऽई॒पम् । ज॒ग॒म॒ । शु॒चे॒ ।
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥

सायणभाष्यम्

हे समह सधन शुचे स्वभावतोनिर्मल वरुण दीनतया अशक्तत्वेन क्रत्वः कर्मणः कर्तव्यत्वेन विहितस्य श्रौतस्मार्तादिलक्षणस्य प्रतीपं प्रतिकूलं अननुष्ठानं जगम प्राप्तवानस्मि अतएव त्वया बद्धः तादृशं मां मृळ सुखय अन्यद्गतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११